This is strotra is dedicated to Lord Surya (SUN). If you can chant it then it is the best thing.
1000 Names of Sun God.
https://sanskritdocuments.org/doc_z_misc_navagraha/suuryasahasraBhaviShya.html
अथ स्तोत्रम् - ॐ विश्वविद्विश्वजित्कर्ता विश्वात्मा विश्वतोमुखः । विश्वेश्वरो विश्वयोनिर्नियतात्मा जितेन्द्रियः ॥ १॥ कालाश्रयः कालकर्ता कालहा कालनाशनः । महायोगी महासिद्धिर्महात्मा सुमहाबलः ॥ २॥ प्रभुर्विभुर्भूतनाथो भूतात्मा भुवनेश्वरः । भूतभव्यो भावितात्मा भूतान्तःकरणं शिवः ॥ ३॥ शरण्यः कमलानन्दो नन्दनो नन्दवर्धनः । वरेण्यो वरदो योगी सुसंयुक्तः प्रकाशकः ॥ ४॥